Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 488
________________ ॥४११॥ यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा। बुद्धिमेव प्रयोक्ष्ये तद् बुद्धिर्हि जयकामधुक् ॥११॥ अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् । ९२॥ प्रद्योतनृपतेः सैन्यस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैखि ॥१३॥ अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥२४॥ शिवादेवी-चेल्लणयोर्भदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसम्बन्धेनापि सर्वदा ॥९५।। तदवन्तीश ! वन्मि त्वामेकान्तहितवाञ्छया । सर्वे श्रेणिकराजेन भेदितास्तव भृभुजः ॥९६॥ दीनारा: प्रेषिताः सन्ति तेभ्यस्तान कर्तमात्मसात । ते तानादाय बद्ध्या त्वामपयिष्यन्ति मत्पितः ॥९७॥ तदावासेषु दीनाग निखाताः सन्ति तत्कृते। खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ॥९८|| विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत । ९९।। नष्टे तत्र तु तत्सैन्यं विलोडथाब्धिमिवाखिलम् । हस्त्यश्वाधाददे सारं मगधेन्द्रः समन्ततः ॥१०॥ नासारूढेन जीवेन वायुवाजेन वाजिना। ततः प्रद्योतनृपतिः कथश्चित् स्वां पुरीं ययौ ॥१०१॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः। तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ।।१०२॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजामनुयान्तस्तेऽप्यापुरुजयिनी पुरीम् ॥१०३।। १-क. ग. छ.। तकांक्षया मु.। तवांक्षया शां.॥ ॥४१॥ Jain Education Intel For Private & Personal Use Only H w .jainelibrary.org का

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502