Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ ४०७ ॥
Jain Education Inter
तं दृष्ट्वा मुदितो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्च द्विमलैः सुवर्णकलशाम्बुभिः || ४०॥ राजाऽपि संस्मरन् पार्श्वजिनं पञ्चनमस्क्रियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ ४१ ॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्ता गर्भ नन्दाऽपि दुर्वहम् ||४२|| तस्या दोहद इत्यासीद् गजारूढा शरीरिणाम् । महाभृत्योपकुर्वाणा भवाम्यभयदा यदि ||४३|| विज्ञपय्याथ राजानं तत्पित्रापूरि दोहदः । पूर्णे काले च सात्सूत प्राची रविमिवार्भकम् ||४४|| दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ||४५।। सक्रमाद्ववृधे विद्या विद्या: पपाठ च । अष्टवर्षोऽभवद्दक्षो द्वासप्तत्यां कलासु च ॥ ४६ ॥
.
सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते न हि ॥४७॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽमयम् ||४८ || नन्दां प्रत्यभयोऽप्यूचे मातः ! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्देत्यचीकथत् । ४९॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥ ५०॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदष्ट्रिकाः ॥५१॥
१ पार्श्व मु. ॥ ४ भद्रश्रेष्ठी शां
२ सवय. कलहे खं. ॥ त्रिषष्टि० १० । ६ । १४७ ॥
३ पितापि ज्ञा खं त्रिषष्टि० १० । ६ । १४५ ।।
५ सा चेत्यचीकथत् शां. खं. ॥ ६ समीयुः खं. ॥
For Private & Personal Use Only
5
10
1120911
www.jainelibrary.org

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502