Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 468
________________ ॥३९॥ " धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् " [ ] तथा "कंचणमणिसोवाणं थंभसहस्सोसियं सुवण्णतलं । जो कारिज जिणहरं तओ वि तवसंजमो अहिओ ॥ [उपदेशमाला गा० ४९४] व्यतिरेकमाह-दोषास्तु दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुःषन्ति प्रादुर्भवन्ति ॥१०८॥ दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपश्चयति सङ्गाद् भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो यत्तेनान्दोलितात्मनः ॥१०॥ सङ्गात् परिग्रहाद्धेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्वेषप्रभृतयः शत्रवः । सङ्गवतो हि तन्निबन्धनो रागः प्रादुर्भवति । सङ्गप्रतिपन्थिषु च द्वेषः । एवं मोह-भयादयो वध-बन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । १ काञ्चनर्माणसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपःसंयमोऽधिक. ॥ २ संजमो अणंतगुणो शां. खं. क. छ. उ. ढ.॥ ॥३९१॥ Jain Education Inte For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502