Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ३९०॥
Jain Education Int
प्राणी शरीरी, भवे संसारे, क इव क्व ? अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव यथा निश्वधिधनधान्यादिभाराक्रान्तः पोतः समुद्रे, मज्जति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमज्जति । यदाहुः – “ महारंभयाए महापरिग्गहयाए कुणिमाहारेण पंचिदियवहेणं जीवा नरयाउयं अज्जंति " [ ]। तथा " बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ” [तच्चार्थ० ६ । १६ ] इति, यस्मादेवं तस्मात् त्यजेन्नियन्त्रयेत्, परिग्रहं धनधान्यादिरूपं मूर्च्छारूपं वा ॥ १०७ ॥
सामान्येन परिग्रहदोषानाह -
त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुःषन्ति परिग्रहे || १०८ ||
त्रसरेणवो गृहजालान्तःप्रविष्टसूर्य किरणोपलक्ष्याः सूक्ष्मा द्रव्यविशेषाः, तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, न हि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्धयति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्द्धहेतुत्वाद्दोष एव । योऽपि जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न स गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनम्, न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहु:
1
१ महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियबधेन जीवा नरकायुरर्जयन्ति ।। तुलना - भगवती सूत्रे - Sष्टमे शतके नवम उद्देशके ॥ २ अञ्जेति खं. ॥ ३ भवन विम्बविधाना खं. ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
श्लोक १०८
॥३९०॥
5
10
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502