Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 470
________________ ॥३९३॥ परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमल्पं नियतपरिमाणं कुर्यात् ।।११०॥ पुनरपि सिंहावलोकितेन परिग्रहदोषानाह मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः सगैरङ्गीकृतं नरम् ॥१११॥ सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकृतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुग्णन्ति तथा संसारकान्तारगत विषयाः शब्दादयः संयमसर्वस्वापहारेण मुष्णन्ति निर्द्धनीकुर्वन्ति । यथा वा बहुपग्ग्रिहं नंष्टुमशक्नुवन्तं दीप्तो दवाग्निदहति तथा संसारकान्तारगं मन्मथाग्निश्चिन्तादिना दशप्रकारेण विकारेण दहत्युपतापयति । यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोभेन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च स्वातन्त्र्यवृत्तिनिषेधेन रुन्धन्ति । अपि च बहनापि परिग्रहेण काङ्क्षावतां न तृप्तिः सम्भवति, अपि त्वसन्तोष एव वद्धते । यन्मुनयः " सुवण्णरुप्पस्स य पव्यया भवे सिआ हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किचि इच्छा हु आगाससमा अणंतिआ । १ ग्रहे ख.॥ २ सुवर्णरूप्यस्य च पर्वता भवेयुः स्युहूं कैलाससमा असङ्ख्याः । नरस्य लुब्धस्य न ते: किश्चित् इच्छा हु आकाशसमा अनन्तिका ।। ||३९३॥ Jain Education Intel w.iainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502