________________
॥३९३॥
परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमल्पं नियतपरिमाणं कुर्यात् ।।११०॥ पुनरपि सिंहावलोकितेन परिग्रहदोषानाह
मुष्णन्ति विषयस्तेना दहति स्मरपावकः ।
रुन्धन्ति वनिताव्याधाः सगैरङ्गीकृतं नरम् ॥१११॥ सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकृतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुग्णन्ति तथा संसारकान्तारगत विषयाः शब्दादयः संयमसर्वस्वापहारेण मुष्णन्ति निर्द्धनीकुर्वन्ति । यथा वा बहुपग्ग्रिहं नंष्टुमशक्नुवन्तं दीप्तो दवाग्निदहति तथा संसारकान्तारगं मन्मथाग्निश्चिन्तादिना दशप्रकारेण विकारेण दहत्युपतापयति । यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोभेन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च स्वातन्त्र्यवृत्तिनिषेधेन रुन्धन्ति । अपि च बहनापि परिग्रहेण काङ्क्षावतां न तृप्तिः सम्भवति, अपि त्वसन्तोष एव वद्धते । यन्मुनयः
" सुवण्णरुप्पस्स य पव्यया भवे सिआ हु केलाससमा असंखया ।
नरस्स लुद्धस्स न तेहि किचि इच्छा हु आगाससमा अणंतिआ । १ ग्रहे ख.॥ २ सुवर्णरूप्यस्य च पर्वता भवेयुः स्युहूं कैलाससमा असङ्ख्याः । नरस्य लुब्धस्य न ते: किश्चित् इच्छा हु आकाशसमा अनन्तिका ।।
||३९३॥
Jain Education Intel
w.iainelibrary.org
For Private & Personal Use Only