________________
स्वोपज्ञ
वृत्ति
विभूषित योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ११० ॥३९२॥
॥३९२।।
कथमसन्तोऽपि रागादयो भवन्तीति ? उच्यते-यत यस्मान्मुनेरपि आस्तामन्यस्य चलेत् प्रशमावस्थायाश्च्यवेत चेतो मनः तेन सङ्गेन आन्दोलितात्मनः अस्थिरीकृतात्मनः । मुनिरपि हि सङ्गानङ्गीकुर्वन् मुनित्वाद् भ्रश्यत्येव । यदाह
छेओ भेओ वसणं आयास किलेस भय विवागो अ। मरणं धम्मभंसो अरई अत्थाओ सव्वाई ।। दोससयमूलजालं पुवरिसिविवज्जियं जईवंतं । अत्थं वहसि अणत्थं कीस अणत्थं तवं चरसि ॥ वहबंधणमारणसेहणाओ काओ परिग्गहे णथि । तं जइ परिगहो चिय जइधम्मो तो णणु पवंचो॥"
उपदेशमाला गा० ५०-५२] १०९ ॥ सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणाभिसंवनाति
संसारमूलमारम्भास्तेषां हेतुः परिग्रहः ।
तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥११०॥ आरम्भाः प्राण्युपमर्दादयस्ते संसारस्य मूलम् , एतदविवादसिद्धम् , ततः किम् ? तेषामारम्भाणां हेतुः कारणं १ छेदो भेदो व्यसनमायासः क्लेशो भयं विपाकश्च । मरणं धर्मभ्रंशोऽरतिरर्थात् सर्वाणि ॥ दोषशतमूलजालं पूर्वर्षिविवर्जितं यतिवान्तम् । अर्थ बहसि अनर्थ कस्मादनर्थ तपश्चरसि ।। वधबन्धनमारणशिक्षणा: काः परिग्रहे न सन्ति । तद् यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपञ्चः ॥ २ निरत्थं मु.॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org