________________
॥३९॥
" धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् " [ ] तथा
"कंचणमणिसोवाणं थंभसहस्सोसियं सुवण्णतलं ।
जो कारिज जिणहरं तओ वि तवसंजमो अहिओ ॥ [उपदेशमाला गा० ४९४] व्यतिरेकमाह-दोषास्तु दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुःषन्ति प्रादुर्भवन्ति ॥१०८॥ दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपश्चयति
सङ्गाद् भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः ।
मुनेरपि चलेच्चेतो यत्तेनान्दोलितात्मनः ॥१०॥ सङ्गात् परिग्रहाद्धेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्वेषप्रभृतयः शत्रवः । सङ्गवतो हि तन्निबन्धनो रागः प्रादुर्भवति । सङ्गप्रतिपन्थिषु च द्वेषः । एवं मोह-भयादयो वध-बन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् ।
१ काञ्चनर्माणसोपानं स्तम्भसहस्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपःसंयमोऽधिक. ॥ २ संजमो अणंतगुणो शां. खं. क. छ. उ. ढ.॥
॥३९१॥
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org