SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ ३९०॥ Jain Education Int प्राणी शरीरी, भवे संसारे, क इव क्व ? अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव यथा निश्वधिधनधान्यादिभाराक्रान्तः पोतः समुद्रे, मज्जति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमज्जति । यदाहुः – “ महारंभयाए महापरिग्गहयाए कुणिमाहारेण पंचिदियवहेणं जीवा नरयाउयं अज्जंति " [ ]। तथा " बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ” [तच्चार्थ० ६ । १६ ] इति, यस्मादेवं तस्मात् त्यजेन्नियन्त्रयेत्, परिग्रहं धनधान्यादिरूपं मूर्च्छारूपं वा ॥ १०७ ॥ सामान्येन परिग्रहदोषानाह - त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुःषन्ति परिग्रहे || १०८ || त्रसरेणवो गृहजालान्तःप्रविष्टसूर्य किरणोपलक्ष्याः सूक्ष्मा द्रव्यविशेषाः, तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, न हि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्धयति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्द्धहेतुत्वाद्दोष एव । योऽपि जिनभवनविधानादिलक्षणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न स गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनम्, न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहु: 1 १ महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियबधेन जीवा नरकायुरर्जयन्ति ।। तुलना - भगवती सूत्रे - Sष्टमे शतके नवम उद्देशके ॥ २ अञ्जेति खं. ॥ ३ भवन विम्बविधाना खं. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक १०८ ॥३९०॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy