Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 476
________________ ॥३९९|| ग्रामः सुघोषो नामाऽभू-मध्ये मगधनीवृतः । कुचिकर्णाभिधानश्च ग्रामणीस्तत्र विश्रुतः ॥१॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त भ्रियते हि सरोवरम् ।।२।। गोपालानां पालनाय सोऽर्पयामास गास्ततः। भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ॥३॥ कुचिकों विभज्यता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् । ४।। पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुनानो दधिपयसी सोऽवसत्तेषु च क्रमात् ।।५।। अन्वहं बर्द्धयामास गोष्ठे गोष्ठे स गोधनम् । अतृप्तो दधिपयसोः सुराया इव दुर्मदः ॥६॥ तस्याभवदथाजीर्णमध ऊर्ध्व सरद्रसम् । प्रदीपनान्तःपतितस्येव दाहो महानभूत् ॥७॥ हा धेनवो हा नवतर्णकाच, हा शाक्वरा वः क्व कदा च लप्स्ये । स गोधनैरेवमतृप्त एव, मृत्वाऽथ तिर्यग्गतिमाससाद ॥८॥ [इति कुचिकर्णकथानकम् ] श्रेष्ठ्यासीत्तिलको नाम पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥१॥ माष-मुद्ग-तिल-बीहि-गोधूम-चणकादिकम् । ददौ साकिया धान्यं काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यैर्धान्यं धनैर्धान्यं धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन धान्यं स तत्ववत् ॥३॥ १ नीवृति खं.॥ २ वृषभाः इत्यर्थः । शक्वराः खं.॥ ||३९९॥ Jain Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502