SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ।।३६९ ।। Jain Education Inter ooooooooका धारानाराचधोरण्या प्रसर्विया निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः । २६ ॥ गृहाद् गृहीत्वा महिषीः सुभगोऽपि बहिर्गतः । विनिवृत्तोऽन्तराऽपश्यद् घोरपूरां महानदीम् ||२७|| तां दृष्ट्वा स मनागु भीतस्तस्थौ किञ्चिद्विचिन्तयन् । नदीं तीर्त्वा परक्षेत्रे महिष्यः प्राविशंस्ततः ||२८|| नमस्कारं पठन् व्योमयानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ॥ २९ ॥ तत्रान्तः कर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविवेश च ॥३०॥ तथैवावर्त्तयन् पञ्चपरमेष्ठिनमस्त्रियाम् । तदा ममविधा तेन कालधर्ममियाय सः ॥ ३१ ॥ श्रेष्ठिपल्यास्ततः सोऽईद्दास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ||३२|| तस्मिन् गर्भस्थिते मासि तार्त्तीयीके व्यतीयुषि । श्रेष्टिनी श्रेष्ठिने स्वस्य दोहदानित्यचीकथत् ||३३|| गन्धोदकैः स्नपयितुं विलेप्तुं च विलेपनैः । अर्चितुं कुसुमैरिच्छाम्यतां प्रतियातनाः ||३४|| प्रतिलम्भयितुं साधूनिच्छाम्याच्छादनादिभिः । संघं पूजयितुं दातुं दीनेभ्यश्च मतिर्मम ||३५|| इत्यादिदोहदांस्तस्याः श्रुत्वा मुदितमानसः । चिन्तामणिरिव श्रेष्ठिशिरोमणिरपूरयत् ॥ ३६ ॥ ततो नवसु मासेषु दिनेष्वष्टमेषु च । गतेषु श्रेष्टिनी पुत्रमनून शुभलक्षणम् ||३७|| सो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थं नाम निर्ममे || ३८ || १ प्रतिमा इत्यर्थः ॥ ८३ For Private & Personal Use Only 5 10 ॥३६९॥ jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy