________________
स्वोपक्ष
वृत्ति
विभूषितं योगशास्त्रम्
द्वितीयः
प्रकाश: | श्लोकः १०१
॥३०॥
॥३७॥
वर्द्धमानः क्रमात्पित्रोमनोरथ इवोच्चकैः । सुदर्शनो यथौचित्यं जग्राह सकलाः कलाः ॥३९॥ कन्यां मनोरमां नाम मनोरमकुलाकृतिम् । साक्षादिव रमा श्रेष्ठी तेनाथो पर्यणाययत् ॥४०॥ सौम्यमूर्तिः स हर्षाय पित्रोरेव न केवलम् । जज्ञे राज्ञोऽपि लोकस्य सर्वस्य च शशाङ्कवत् ॥४१॥ इतो नगर्यो तत्राभृद् भूपते हृदयङ्गमः । पुगेधाः कपिलः प्राप्तरोधा विद्यामहोदधेः॥४२॥ समं सुदर्शनेनास्य मन्मथेन मधोरिव । अजायत परा श्रीतिः सर्वदाऽप्यविनश्वरी ॥४३॥ [युग्मम् ] प्रायः सुदर्शनस्यैव स पुरोधा महात्मनः । रौहिणेय इवोष्णांशोः परिपार्श्वमवर्तत ॥४४॥ कपिलं कपिला नाम भार्याऽपृच्छत्तमन्यदा। विस्मरन्नित्यकर्माणि क्वेयत्कालं नु तिष्ठसि ॥४५॥ पार्श्वे सुदर्शनस्याहं तिष्ठामीति तदीरिते। कोऽसौ सुदर्शन इति तयोक्तः प्रत्युवाच सः ॥४६।। मम मित्रं सतां धुर्य विश्वकप्रियदर्शनम् । सुदर्शनं न चेद्वेसि तवं वेत्सि न किञ्चन ॥४७॥ तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः ॥४८॥ एष रूपेण पश्चेषुः कान्त्येन्दुस्तेजसा रविः । गाम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ॥४९।। दानकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥५०॥ १ -ख. च. ड. । तेन तां प मु. ॥ २ रोहि खं. ॥ ३ कियत्कालं नु तिष्ठसि-मु.॥ ४ नु-वं. क. ग.!! ५ तज्ज्ञापया शां. ॥
For Private & Personal Use Only
N
Jain Education Inter
w.jainelibrary.org