SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ॥ ३७२ ॥ Jain Education I nal वक्त्वा खलु यद्वाऽस्य निखिलानपरान् गुणान् । गुणचूडामणिः शीलं यस्य न स्खलति क्वचित् ॥ ५१ ॥ कपिला कपिलाच्छ्रुत्वा तद्गुणान् कामविह्वला । चक्रेऽनुरागं चपलाः प्रायेण द्विजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रहमेव योगिनी || ५३ ॥ अपरेद्युर्नृपादेशाद् ग्रामान्तरमुपेयुषि । कपिले कपिलेयाय सुदर्शननिकेतनम् ||५४|| सा मायाविन्यवोचत्तमद्य त्वत्सुहृदो महत् । शरीरापाटवं तेन हेतुना नाययाविह || ५५ || पाटवं त्वद्विरहाद्वपुषो द्विगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तव ॥ ५६ ॥ नैतज्ञातं मयेत्युक्त्वा तदेवागात् स तद्गृहम् । नान्यमायां हि शङ्कन्ते सन्तः स्वयममायिनः ||५७|| स तत्र प्रविशन्नूचे का नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते ॥ ५८ ॥ किश्चिच्च परिसृप्याग्रे पुनः प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र क्वचिद्ययौ ॥ ५९ ॥ सोचे स्थितो निवातेऽस्ति शरीरापाटवादसौ । मूलापवरकं गच्छ वयस्यं तत्र पश्य च ॥ ६० ॥ तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिलः ववास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुभ्य ततो द्वारं मदनोद्दीपनानि सा । किञ्चित् प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा ||६२|| दृढबन्धामपि नीवीं लयित्वाऽभिवनती । विलोललोचनाऽवोचद्रोमाञ्चोदञ्चिकञ्चुका || ६३॥ [ युग्मम् ] १ मणेः- शां. मु. ॥ For Private & Personal Use Only 20202029202020209929299990 5 10 ।।३७१|| www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy