Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 452
________________ ॥३७५ अथाभयोचे कथमप्येकवार तमानय । तत ऊर्वमहं सर्व करिष्यामि न ते च्छलम् ॥१०२॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता। यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥१०३॥ पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः। तथास्थितो यदि परमानेतव्योऽन्यथा तु ॥१०४।। उपायः साधुरेषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्यादेव्यामोमित्युवाच सा ॥१०५।। ततः परं व्यतीतेषु दिवसेषु कियत्स्वपि । विश्वानन्दकृत्कौमुदीमहोत्सव उपाययौ ॥१०६।। अथ राज्ञोत्सवोत्सेकविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥१०७।। सर्वद्धर्था सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेऽभिगन्तव्यमिति वो राजशासनम् । १०८॥ प्रातरेष्यच्चतुर्मासधर्मकर्म क्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विषादादित्यचिन्तयत् ॥१०९।। मनः प्रह्वमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत् प्रचण्डं राजशासनम् ।।११०॥ क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समर्योपायनं भूमिपतिमेवं व्यजिज्ञपत् ॥१११॥ प्रातः पर्वदिनं युष्मत्प्रसादाद्विदधाम्यहम् । देवार्चादीनि तेनोक्तोऽनुमेने तन्महीपतिः ॥११२॥ द्वितीयेऽह्नि जिनेन्द्राणां भक्त्या स्नात्रं विलेपनम् । अर्चा च रचयंश्चैत्यपरिपाट्यां चचार सः ॥११३॥ ततः सुदर्शनी रात्रौ गृहीत्वा पौषधव्रतम् । कायोत्सर्गेण कस्मिंश्चित्तस्थौ नगरचत्वरे ॥११४।। १ पतिमिदं व्यजि खं॥ ॥३७५।। in Education a l For Private & Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502