Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
||३८० ॥
Jain Education Inter
arrr तस्य चाक्षैर्दृढं व्यापारितः शितः । करवालोऽपतत् कण्ठे पुष्पमाला च सोऽभवत् ॥१६६॥ तद् दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनीं वेगाद् ययावधिसुदर्शनम् ॥ १६७॥ तमालिङ्ग्य महीपालोऽनुतापादित्यवोचत । श्रेष्ठिनहि विनष्टोऽसि दिष्टथाऽऽत्मीय प्रभावतः ॥ १६८ ॥ या हि तावत्पापेन किराज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ १६९ ॥ atri माया प्रधानानां प्रत्ययावां निहन्ति यः । अविमृश्यकरः पापो नाऽपरो दधिवाहनात् ॥ १७० ॥ किं च किश्चिदिदं पापं भवताऽप्यस्मि कारितः । असकृद्यन्मया साधो ! तदा पृष्टोऽपि नावदः ॥ १७१ ॥ एमालपता राज्ञा करिण्यामधिरोप्य सः । नीत्वा स्वयें स्नपितश्चन्दनैश्व विलेपितः || १७२ || वस्त्रालङ्कारजातं च परिधाप्य सुदर्शनः । राज्ञा पृष्टो रात्रिवृत्तं यथातथमचीकथत् ॥ १७३॥ अथ राज्ञीं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्याषेधि शिरः प्रक्षिप्य पादयोः ॥१७४॥ ततः श्रेष्ठी नृपेणेभमारोप्य पुरमध्यतः । महाविभूत्या तद्वेश्म नायितो न्यायतायिना || १७५।। अभयाप्येतदाकयबध्यात्मानं व्यपद्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥ १७६ ॥ पण्डिताऽपि प्रणश्यागात् पाटलीपुत्रपत्तनम् । अवसदेवताया गणिकायाश्च सन्निधौ ॥ १७७॥ तत्रापि पण्डिता नित्यं तथाऽशंसत् सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूद् भृशमुत्सुका ॥ १७८ ॥
For Private & Personal Use Only
3200000000 Soooकलकर
द्वितीय:
प्रकाश:
श्लोक १०१
||३८०||
5
10
www.jainelibrary.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502