Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३७९॥
स मण्डितो मुखे मष्या शरीरे रक्तचन्दनैः । करवीरस्रजा मुण्डे कण्ठे कोशकमालया ॥१५३।। खरमारोप्य विधृतसूर्पच्छत्रः स तैस्ततः । वाद्यमानेनाऽऽनकेनारेमे भ्रमयितुं पुरे ॥१५४॥ कृतापराधः शुद्धान्ते वध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥१५५।। न युक्तं सर्वथाऽप्येतन्नेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूद् हाहारवयुतस्ततः ॥१५६।। एवं च भ्रम्यमाणोऽगाद् द्वारदेशे स्ववेश्मनः । अदृश्यत महासत्या स मनोरमयाऽपि च ॥१५७|| चिन्तयामास सा चैवं सदाचारः पतिर्मम । भूपतिश्च प्रियाचारो दुराचारो विधिर्धवम् ॥१५८॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मणः ॥१५९॥ कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तजिनार्चाः सार्चयत्ततः ॥१६॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः। भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥१६१।। परमेश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥१६२।। अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलस्त्रियः १ ॥१६३।। इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ॥१६॥ स्वर्णाब्जासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ॥१६५।। १ कोशिक क.॥ २झनाचारो शां.॥ ३ भयङ्करी-खं ॥
॥३७९।।
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502