Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३७७॥
Jain Education Inter
000000000 220200
૫
ततः सुर्दशैनोऽप्युच्चः परमार्थविचक्षणः । देवताप्रतिमेवास्थात् कायोत्सर्गेण निश्चलः ॥ १२८ ॥ पुनरप्यभावादीद् भावहावमनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ १२९ ॥ व्रतकष्टमिदं मुञ्च मा कृथास्त्वमतः परम् । मत्संप्राप्त्या व्रतफलं विद्धि संसिद्धमात्मनः ॥ १३०॥ ताम्यन्तीं याचमानां मां नम्रां मानय मानद || दैवात् पतितमुत्सङ्गे रत्नं गृह्णासि किं न हि ॥ १३१ ॥ कदापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया पाणौ स पाणिना || १३२ || निबिडं मण्डलीभूत पीनो तुङ्गस्तनं तथा । भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सस्वजे ||१३३॥ एवं तदुपसर्गेषु निसर्गेण स धीरधीः । धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः क्वचित् ॥ १३४॥ सदध्यौ चेति चेन्मुच्ये कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ॥ १३५ ॥ अमानिताऽथ वटितभ्रकुटिः कुटिलाशया । अभया तं भापयितुमित्यभाषत निर्भया ॥ १३६ ॥ मुमूर्षो ! मूर्ख ! मा कार्षीर्मान्याया मेऽवमाननाम् । न वेत्सि मानिनी नृणां निग्रहा- ऽनुग्रहक्षमा ॥१३७|| मनोभववशाया मे वशमाविश रे जड ! | नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ॥ १३८ ॥ इति संरम्भकाष्ठायां सारुरोह यथा यथा । धर्मध्याने महात्माऽसावारुरोह तथा तथा || १३९ ।।
३ मानिनीर्नृणां निग्रहानुग्रहक्षमाः खं ॥
१ हावभावमनो ख च ॥ ४ महात्मा स चारुरोह खं च ॥
२ माननम् क. ।।
X
For Private & Personal Use Only
10
||३७७॥
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502