Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 464
________________ ||३८७ ॥ Jain Education यदेवाङ्गं कुत्सनीयं गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत् केनान्येन विरज्यताम् ||३७|| मोहादह नारीणामङ्गैमसाऽस्थिनिर्मितैः । चन्द्रेन्दीवर-कुन्दादि सहक्षीकृत्य दूषितम् ॥ ३८ ॥ नारीं नितम्ब जघन-स्तनभूरिभारामारोपयन्त्युरसि मूढधियो खाय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ||३९|| भवोदन्वद्वेलां मदनमृगयुव्याधहरिणीं, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहुलपक्षान्तरजनीं विपत्खानिं नारीं परिहरत हे श्राद्धसुधियः ! ॥ ४० ॥ १०५ ॥ संप्रति मूर्च्छा फलमुपदर्शयंस्त नियन्त्रणारूपं पञ्चममणुत्रतमाह - असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणम् ||१०६ ॥ दुःखकारणमित्य सन्तोषादिभिस्त्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि मूर्च्छाया गर्द्धस्य फलत्वेन विज्ञाय मूर्च्छाहेतोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः । तत्रासन्तोषस्तुप्त्यभावः, स दुःखकारणम् । मूर्च्छावान् हि बहुभिरपि धनैर्न संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंपदुत्कर्षश्च ही संपदमसन्तुष्टं दुःखाकरोति । यदाह “ असन्तोषवतां पुंसामपमानः पदे पदे । सन्तोषैश्वर्यमुखिनां दूरे दुर्जनभूमयः ॥ " [ For Private & Personal Use Only 5 10 ||३८७ || www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502