________________
||३८७ ॥
Jain Education
यदेवाङ्गं कुत्सनीयं गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत् केनान्येन विरज्यताम् ||३७|| मोहादह नारीणामङ्गैमसाऽस्थिनिर्मितैः । चन्द्रेन्दीवर-कुन्दादि सहक्षीकृत्य दूषितम् ॥ ३८ ॥ नारीं नितम्ब जघन-स्तनभूरिभारामारोपयन्त्युरसि मूढधियो खाय ।
संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ||३९|| भवोदन्वद्वेलां मदनमृगयुव्याधहरिणीं, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहुलपक्षान्तरजनीं विपत्खानिं नारीं परिहरत हे श्राद्धसुधियः ! ॥ ४० ॥ १०५ ॥ संप्रति मूर्च्छा फलमुपदर्शयंस्त नियन्त्रणारूपं पञ्चममणुत्रतमाह - असन्तोषमविश्वासमारम्भं दुःखकारणम् ।
मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणम् ||१०६ ॥
दुःखकारणमित्य सन्तोषादिभिस्त्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि मूर्च्छाया गर्द्धस्य फलत्वेन विज्ञाय मूर्च्छाहेतोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः । तत्रासन्तोषस्तुप्त्यभावः, स दुःखकारणम् । मूर्च्छावान् हि बहुभिरपि धनैर्न संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंपदुत्कर्षश्च ही संपदमसन्तुष्टं दुःखाकरोति । यदाह
“ असन्तोषवतां पुंसामपमानः पदे पदे । सन्तोषैश्वर्यमुखिनां दूरे दुर्जनभूमयः ॥ " [
For Private & Personal Use Only
5
10
||३८७ ||
www.jainelibrary.org