________________
स्वोपज्ञवृति विभूषितं
योगशास्त्रम्
||३८८||
Jain Education
nal
अविश्वासः खल्वपि दुःखकारणम्, अविश्वस्तो ह्याशङ्कनीयेभ्योऽपि शङ्कमानः स्वधनस्य रक्षां कुर्वन्न क्वचिद्वि
श्वसिति । यदाह -
44
१
उक्खण खणड़ निहण रतिं न सुअइ दिआ वि अ सको । लिंys as सययं छियपडिलंछियं कुणइ ॥ " [ J
मूर्च्छापरिगतारम्भं प्राणातिपातादिकं प्रतिपद्यते । तथाहि - तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्श्चश्च कूटसाक्षित्वदायी बह्ननृतं भाषते, बलप्रकर्षात् पथिकजनं मुष्णाति खनति खात्रं गृह्णाति बन्द, धनलोभात् परदारानभिगच्छति, तथा सेवा- कृषि - पाशुपाल्य वाणिज्यादि च करोति । मम्मणवणिगिव नद्यादिषु प्रविश्य काष्ठान्याकपति ।
ननु दुःखकारणं मूर्च्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति केयं वाचो युक्तिः ? उक्तमत्र - मूर्च्छाकारणत्वात् परिग्रहोऽपि मूच्छेब, अथवा " मूर्च्छा परिग्रहः " [ तच्चार्थ० ७ १२] इति सूत्रकारवचनात् मूच्छैव परिग्रह इति निश्चयनयमतेनोच्यते, मूर्च्छामन्तरेण धन-धान्यादेरपरिग्रहत्वात् । यदाह
“ अपरिग्रह एव भवेद्वस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति ममकारे सङ्गवान्नग्नः ।।” [स्त्रीनि० १५]
१ उत्खनति खनति निहन्ति रात्रौ न स्वपिति दिवापि च सशङ्कः । लिम्पति स्थापयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥
२ विदं मु. ॥
For Private & Personal Use Only
३ सन् शां. ख च ॥
00000
द्वितीय: प्रकाश: श्लोक : १०६
||३८८||
5
10
www.jainelibrary.org