Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३८॥
सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपसृत्य गुरोः पार्चे रत्नमम्मोनिधेरिव ॥१७९॥ तपकृशाङ्ग एकाङ्गविहारप्रतिमा स्थितः । स क्रमाद्विहरन् प्राप पाटलीपुत्रपत्तनम् ॥१८०॥ भिक्षार्थ पर्यटस्तत्र दृष्टः पण्डितया च सः। कथितो देवदत्तायाः सा तया तमजूहवत् ॥१८१।। भिक्षाव्याजात्तयाऽऽहतस्तत्रापि स मुनिर्ययौ। विमर्शमविधायैव सापाय-निरपाययोः ॥१८२॥ देवदत्ता ततो द्वारं पिधाय तमनेकधा । दिनं कदर्थयामास चुक्षोभ स मुनिन तु ॥१८३॥ अथ मुक्तस्तया सायमुद्यानं गतवानसौ। तत्रापि दृष्टोऽभयया व्यन्तरीभृतया तया ॥१८४॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ। ऋण वैरं च जन्तूनां नश्यजन्मान्तरेऽपि न ॥१८५।। क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । आरोहत् क्षपकश्रेणिमपूर्वकरणक्रमात् ॥१८६।। तत: स भगवान् प्राप केवलज्ञानमुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रे सुरासुरैः॥१८७॥ उद्दिधीभवाज्जन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ॥१८८॥ तस्य देशनया तत्राबुद्धयन्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यवुद्धयत ॥१८९॥ स्त्रीसन्निधावपि तदेवमदूषितात्मा जन्तून् प्रबोध्य शुभदेशनया क्रमेण । स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तद् दुरापम् ॥१९०।।
[इति सुदर्शनऋषिकथानकम् ] ॥१०१॥ १ -ख. ड. । मुक्तोऽनया मु.॥ २ एतदन्तर्गतः पाठो नास्ति शां. खं.॥
॥३८॥
Jain Education in
For Private & Personal Use Only
मा
ww.jainelibrary.org

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502