SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ॥३८॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपसृत्य गुरोः पार्चे रत्नमम्मोनिधेरिव ॥१७९॥ तपकृशाङ्ग एकाङ्गविहारप्रतिमा स्थितः । स क्रमाद्विहरन् प्राप पाटलीपुत्रपत्तनम् ॥१८०॥ भिक्षार्थ पर्यटस्तत्र दृष्टः पण्डितया च सः। कथितो देवदत्तायाः सा तया तमजूहवत् ॥१८१।। भिक्षाव्याजात्तयाऽऽहतस्तत्रापि स मुनिर्ययौ। विमर्शमविधायैव सापाय-निरपाययोः ॥१८२॥ देवदत्ता ततो द्वारं पिधाय तमनेकधा । दिनं कदर्थयामास चुक्षोभ स मुनिन तु ॥१८३॥ अथ मुक्तस्तया सायमुद्यानं गतवानसौ। तत्रापि दृष्टोऽभयया व्यन्तरीभृतया तया ॥१८४॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ। ऋण वैरं च जन्तूनां नश्यजन्मान्तरेऽपि न ॥१८५।। क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । आरोहत् क्षपकश्रेणिमपूर्वकरणक्रमात् ॥१८६।। तत: स भगवान् प्राप केवलज्ञानमुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रे सुरासुरैः॥१८७॥ उद्दिधीभवाज्जन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ॥१८८॥ तस्य देशनया तत्राबुद्धयन्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यवुद्धयत ॥१८९॥ स्त्रीसन्निधावपि तदेवमदूषितात्मा जन्तून् प्रबोध्य शुभदेशनया क्रमेण । स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तद् दुरापम् ॥१९०।। [इति सुदर्शनऋषिकथानकम् ] ॥१०१॥ १ -ख. ड. । मुक्तोऽनया मु.॥ २ एतदन्तर्गतः पाठो नास्ति शां. खं.॥ ॥३८॥ Jain Education in For Private & Personal Use Only मा ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy