SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्ति विभूषितं योगशास्त्रम् ॥३८२।। द्वितीयः प्रकाश: श्लोकः १०३ ॥३८२॥ धम्ये कर्मणि न पुरुषा एवाधिक्रियन्ते, किन्तु स्त्रीणामप्यधिकारश्चतुर्वणे सङ्घ तासामप्यङ्गभूतत्वात् , ततः पुरुषस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधति ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव त्याज्यो नार्या नरः परः ॥१०२।। ऐश्वर्येण विभवेन, राजराजो धनदः, स इव राजराजः, आस्तामितरः। रूपेण सौन्दर्येण, मीनध्वजोऽपि स्मरोऽपि, आस्तामन्यः । त्याज्यः परिहरणीयः, नार्या स्त्रिया, परः स्वपतेरन्यो नरः पुरुषः, क इव कया, सीतया रावण इव । सीताचरितमुक्तमेव ॥१०२॥ स्त्रीपुंसयोयोरपि परकान्तासक्तत्वस्य फलपाह नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३॥ नपुंसकत्वं षण्डत्वम् , तिर्यकत्वं तिर्यग्भावः, दौर्भाग्यमनादेयता, भवे भवे जन्मनि जन्मनि, भवेत् जायेत, नराणां स्त्रीणां च । अन्यकान्तासक्तचेतसामिति श्लिष्टं द्वयोर्विशेषणम् । यदा पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता, १ वैभवेन शां.॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy