SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ॥३८३॥ तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः, स चासौ कान्तश्च कामयिता, तत्रासक्तचेतसाम् ॥१०३॥ अब्रह्मनिन्दां कृत्वा ब्रह्मचर्यस्यैहिकं गुणमाह प्राणभूतं चरित्रस्य परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥१०४॥ प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोक्षस्य, एकमद्वितीयं कारणं, समाचरन् पालयन् , ब्रह्मचर्य जितेन्द्रियस्योपस्थनिरोधलक्षणम्, पूजितैरपि सुरासुरमनुजेन्द्रः, न केवलमन्यः, पूज्यते मनोवाक्कायोपचारपूजाभिः ॥१०॥ ब्रह्मचर्यस्य पारलौकिकं गुणमाह चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥१०५॥ चिरायुषो दीर्घायुषोऽनुत्तरसुरादिपूत्पादात् , शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तर१ कमयिता खं. ॥ २ प्राणभूतं चरित्रस्य जीवितभूतं देश० स्वं. | Jain Education Inter For Private & Personal Use Only w ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy