SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ॥३७७॥ Jain Education Inter 000000000 220200 ૫ ततः सुर्दशैनोऽप्युच्चः परमार्थविचक्षणः । देवताप्रतिमेवास्थात् कायोत्सर्गेण निश्चलः ॥ १२८ ॥ पुनरप्यभावादीद् भावहावमनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ १२९ ॥ व्रतकष्टमिदं मुञ्च मा कृथास्त्वमतः परम् । मत्संप्राप्त्या व्रतफलं विद्धि संसिद्धमात्मनः ॥ १३०॥ ताम्यन्तीं याचमानां मां नम्रां मानय मानद || दैवात् पतितमुत्सङ्गे रत्नं गृह्णासि किं न हि ॥ १३१ ॥ कदापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया पाणौ स पाणिना || १३२ || निबिडं मण्डलीभूत पीनो तुङ्गस्तनं तथा । भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सस्वजे ||१३३॥ एवं तदुपसर्गेषु निसर्गेण स धीरधीः । धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः क्वचित् ॥ १३४॥ सदध्यौ चेति चेन्मुच्ये कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ॥ १३५ ॥ अमानिताऽथ वटितभ्रकुटिः कुटिलाशया । अभया तं भापयितुमित्यभाषत निर्भया ॥ १३६ ॥ मुमूर्षो ! मूर्ख ! मा कार्षीर्मान्याया मेऽवमाननाम् । न वेत्सि मानिनी नृणां निग्रहा- ऽनुग्रहक्षमा ॥१३७|| मनोभववशाया मे वशमाविश रे जड ! | नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ॥ १३८ ॥ इति संरम्भकाष्ठायां सारुरोह यथा यथा । धर्मध्याने महात्माऽसावारुरोह तथा तथा || १३९ ।। ३ मानिनीर्नृणां निग्रहानुग्रहक्षमाः खं ॥ १ हावभावमनो ख च ॥ ४ महात्मा स चारुरोह खं च ॥ २ माननम् क. ।। X For Private & Personal Use Only 10 ||३७७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy