________________
स्वोपज्ञ- | वृत्तिविभूषितं योगशाखम्
द्वितीयः प्रकाश: श्लोकः१०१ ॥३७८॥
॥३७८॥
एवं कदर्थितो रात्रि तया ध्यानान्न सोऽचलत् । किं क्षुभ्यति महाम्भोधिः क्वापि नौदण्डताडनैः ॥१४०॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखर्वपुः । कोऽप्यसौ मे बलात्कारकारीत्युच्चै ररास च ॥१४१॥ ततः प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥१४२।। अस्मिन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः। विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चामयाम् ॥१४३॥ सोचे संपृच्छथ देव ! त्वामहं यावदिह स्थिता। एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥१४४॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः। रिसर्मामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ।।१४५।। ऊचे मयैष रे मैषीरसतीवत् सतीरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितुम् ।।१४६।। ततः परं बलात्कारादेष एवं चकार मे। मया च पूत्कृतमन्यदवलानां बलं न हि ॥१४७॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः। किमेतदिति पप्रच्छ बहधैव सुदर्शनम् ॥१४८।। पृष्टोऽपि राज्ञा कृपया किञ्चिन्नोचे सुदर्शनः । परतापोपशान्त्यै हि निघृष्टमपि चन्दनम् ॥१४९।। ततः सम्भावयामास दोषं तस्यापि भूपतिः। पारदारिक-दस्यूनां तूष्णीकत्वं हि लक्षणम् ॥१५०।। इत्यादिदेश स क्रोधात सकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निगृह्यताम् ॥१५१॥
आरक्षपुरुषेोष्णि स धृत्वोत्पाटितस्ततः । वचसा सिद्धयो राज्ञां मनसेव दिवौकसाम् ॥१५२।। १ क्षुभ्यते मु.॥ २ कामीत्युच्चै शां. ॥
Jain Education Intel
For Private & Personal Use Only
G
ww.jainelibrary.org