SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ॥३७९॥ स मण्डितो मुखे मष्या शरीरे रक्तचन्दनैः । करवीरस्रजा मुण्डे कण्ठे कोशकमालया ॥१५३।। खरमारोप्य विधृतसूर्पच्छत्रः स तैस्ततः । वाद्यमानेनाऽऽनकेनारेमे भ्रमयितुं पुरे ॥१५४॥ कृतापराधः शुद्धान्ते वध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥१५५।। न युक्तं सर्वथाऽप्येतन्नेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूद् हाहारवयुतस्ततः ॥१५६।। एवं च भ्रम्यमाणोऽगाद् द्वारदेशे स्ववेश्मनः । अदृश्यत महासत्या स मनोरमयाऽपि च ॥१५७|| चिन्तयामास सा चैवं सदाचारः पतिर्मम । भूपतिश्च प्रियाचारो दुराचारो विधिर्धवम् ॥१५८॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मणः ॥१५९॥ कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तजिनार्चाः सार्चयत्ततः ॥१६॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः। भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥१६१।। परमेश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥१६२।। अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलस्त्रियः १ ॥१६३।। इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ॥१६॥ स्वर्णाब्जासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ॥१६५।। १ कोशिक क.॥ २झनाचारो शां.॥ ३ भयङ्करी-खं ॥ ॥३७९।। Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy