Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 450
________________ ॥३७३॥ सुदर्शन-पुरोधोभ्यां सहोद्यानं ययौ नृपः । साक्षादिव शरत्कालश्चन्द्रा-ऽगस्तिविराजितः ॥७७॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥७८॥ सुदर्शनस्य भार्याऽपि षड्भिः पुत्रैमनोरमा। तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥७९॥ तां दृष्ट्वा कपिलाऽपृच्छत् केयं स्वामिनि ! वर्णिनी। रूपलावण्यसर्वस्वभाण्डागार इवाग्रतः ।।८।। ततस्तामभयाऽवादीन ज्ञातेयमपि त्वया। सुदर्शनस्य गृहिणी गृहलक्ष्मीरिव स्वयम् ।।८।। तच्छ्न्वा विस्मिता स्माह कपिला देवि ! यद्यसौ। सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ॥८२॥ किमस्याः कौशलमिति राज्योक्ता साऽब्रवीत्पुनः । इयन्ति पुत्रभाण्डानि यदसौ समजी जनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयेद्यदि । तत् किं कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥८४॥ एवं देवि ! भवत्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत् ।।८५।। कथमेतत्वया ज्ञातं राज्येति गदिता ततः । सा सुदर्शनवृत्तान्तं स्वानुभूतमचीकथत् ।।८६।। अभयाऽप्यनवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोपिति ॥८७|| ततो विलक्षा कपिला प्रललापेत्ययिता । बञ्चिता यद्यहं मूढा प्राज्ञायाः किं तवाधिकम् ॥८८॥ अभयोचे मया मुग्धे ! रागतः पाणिना धृतः। द्रवेद् ग्रावाऽपि निःपंज्ञः ससंज्ञः किं पुनः पुमान् ।।८९॥ १ षण्डः खं, क. ॥ २ षण्डः खं. क. । षण्डः ख. च.॥ ३ अनयोचं शां. मु.॥ ॥३७॥ Jain Education Inter For Private & Personal Use Only म w.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502