Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ ३७२ ॥
Jain Education I
nal
वक्त्वा खलु यद्वाऽस्य निखिलानपरान् गुणान् । गुणचूडामणिः शीलं यस्य न स्खलति क्वचित् ॥ ५१ ॥ कपिला कपिलाच्छ्रुत्वा तद्गुणान् कामविह्वला । चक्रेऽनुरागं चपलाः प्रायेण द्विजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रहमेव योगिनी || ५३ ॥ अपरेद्युर्नृपादेशाद् ग्रामान्तरमुपेयुषि । कपिले कपिलेयाय सुदर्शननिकेतनम् ||५४|| सा मायाविन्यवोचत्तमद्य त्वत्सुहृदो महत् । शरीरापाटवं तेन हेतुना नाययाविह || ५५ || पाटवं त्वद्विरहाद्वपुषो द्विगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तव ॥ ५६ ॥ नैतज्ञातं मयेत्युक्त्वा तदेवागात् स तद्गृहम् । नान्यमायां हि शङ्कन्ते सन्तः स्वयममायिनः ||५७|| स तत्र प्रविशन्नूचे का नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते ॥ ५८ ॥ किश्चिच्च परिसृप्याग्रे पुनः प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र क्वचिद्ययौ ॥ ५९ ॥ सोचे स्थितो निवातेऽस्ति शरीरापाटवादसौ । मूलापवरकं गच्छ वयस्यं तत्र पश्य च ॥ ६० ॥ तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिलः ववास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुभ्य ततो द्वारं मदनोद्दीपनानि सा । किञ्चित् प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा ||६२|| दृढबन्धामपि नीवीं लयित्वाऽभिवनती । विलोललोचनाऽवोचद्रोमाञ्चोदञ्चिकञ्चुका || ६३॥ [ युग्मम् ] १ मणेः- शां. मु. ॥
For Private & Personal Use Only
20202029202020209929299990
5
10
।।३७१||
www.jainelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502