Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
||३७४ ||
Jain Education Inte
समूचे कपिलाऽप्येवं मा गर्वमुद्वह । गवं वहसि चेद्देवि ! रम्यतां तत् सुदर्शनः ॥ ९० ॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हले ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ ९१ ॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः । तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही ॥ ९२ ॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्याद्यानं प्रपेदाते क्षणेन ते ॥ ९३॥ तंत्र चारमतां स्वैरं नन्दनेऽप्सरसाविव । अभया - कपिले श्रान्ते स्वं स्वं धाम गते ततः ||१४|| अथ तत्राभया राज्ञी स्वप्रतिज्ञामजिज्ञपत् । धात्रिकां पण्डितां नाम सर्वविज्ञानपण्डिताम् ॥ ९५|| पण्डिताऽवोचदाः ! पुत्र ! न युक्तं मन्त्रितं स्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥९६॥ जिनेन्द्र-मुनिशुश्रूषा निष्कम्पीकृतमानसः । सुदर्शनः खल्वसौ तत् प्रतिज्ञां धिगिमां तव ॥ ९७ अन्योऽपि श्रावको नित्यं परनारीसहोदरः । किमुच्यते पुनरसौ महासत्त्वशिरोमणिः || ९८ || ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः । कथं कार्येत सोsह्म गुरुशीलो छुपासकः ॥ ९९ ॥ सदा गुरुकुलासीनो ध्यान - मौनाश्रितः सदा । आनेतुमभिसत् वा स कथं नाम शक्यते ॥ १००॥ वरं फणिफणारत्नग्रहणाय प्रतिश्रवः । कदापि न पुनस्तस्य शीलोल्लङ्घन कर्मणे ।। १०१ ।
३ दाने खं. ॥
४ तत्रारमयतां स्वैरंग. बिना ॥
१ हला शां. मु. ॥ २ क्वासौ खं. ॥ ५ शीलाद्युपासकः - शां. मु. ॥
For Private & Personal Use Only
00000000 00000
द्वितीय: प्रकाशः
श्लोक : १०१
||३७४||
5
www.jainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502