SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ॥३७३॥ सुदर्शन-पुरोधोभ्यां सहोद्यानं ययौ नृपः । साक्षादिव शरत्कालश्चन्द्रा-ऽगस्तिविराजितः ॥७७॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥७८॥ सुदर्शनस्य भार्याऽपि षड्भिः पुत्रैमनोरमा। तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥७९॥ तां दृष्ट्वा कपिलाऽपृच्छत् केयं स्वामिनि ! वर्णिनी। रूपलावण्यसर्वस्वभाण्डागार इवाग्रतः ।।८।। ततस्तामभयाऽवादीन ज्ञातेयमपि त्वया। सुदर्शनस्य गृहिणी गृहलक्ष्मीरिव स्वयम् ।।८।। तच्छ्न्वा विस्मिता स्माह कपिला देवि ! यद्यसौ। सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ॥८२॥ किमस्याः कौशलमिति राज्योक्ता साऽब्रवीत्पुनः । इयन्ति पुत्रभाण्डानि यदसौ समजी जनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयेद्यदि । तत् किं कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥८४॥ एवं देवि ! भवत्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत् ।।८५।। कथमेतत्वया ज्ञातं राज्येति गदिता ततः । सा सुदर्शनवृत्तान्तं स्वानुभूतमचीकथत् ।।८६।। अभयाऽप्यनवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोपिति ॥८७|| ततो विलक्षा कपिला प्रललापेत्ययिता । बञ्चिता यद्यहं मूढा प्राज्ञायाः किं तवाधिकम् ॥८८॥ अभयोचे मया मुग्धे ! रागतः पाणिना धृतः। द्रवेद् ग्रावाऽपि निःपंज्ञः ससंज्ञः किं पुनः पुमान् ।।८९॥ १ षण्डः खं, क. ॥ २ षण्डः खं. क. । षण्डः ख. च.॥ ३ अनयोचं शां. मु.॥ ॥३७॥ Jain Education Inter For Private & Personal Use Only म w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy