________________
॥३७५
अथाभयोचे कथमप्येकवार तमानय । तत ऊर्वमहं सर्व करिष्यामि न ते च्छलम् ॥१०२॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता। यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥१०३॥ पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः। तथास्थितो यदि परमानेतव्योऽन्यथा तु ॥१०४।। उपायः साधुरेषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्यादेव्यामोमित्युवाच सा ॥१०५।। ततः परं व्यतीतेषु दिवसेषु कियत्स्वपि । विश्वानन्दकृत्कौमुदीमहोत्सव उपाययौ ॥१०६।। अथ राज्ञोत्सवोत्सेकविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥१०७।। सर्वद्धर्था सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेऽभिगन्तव्यमिति वो राजशासनम् । १०८॥ प्रातरेष्यच्चतुर्मासधर्मकर्म क्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विषादादित्यचिन्तयत् ॥१०९।। मनः प्रह्वमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत् प्रचण्डं राजशासनम् ।।११०॥ क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समर्योपायनं भूमिपतिमेवं व्यजिज्ञपत् ॥१११॥ प्रातः पर्वदिनं युष्मत्प्रसादाद्विदधाम्यहम् । देवार्चादीनि तेनोक्तोऽनुमेने तन्महीपतिः ॥११२॥ द्वितीयेऽह्नि जिनेन्द्राणां भक्त्या स्नात्रं विलेपनम् । अर्चा च रचयंश्चैत्यपरिपाट्यां चचार सः ॥११३॥ ततः सुदर्शनी रात्रौ गृहीत्वा पौषधव्रतम् । कायोत्सर्गेण कस्मिंश्चित्तस्थौ नगरचत्वरे ॥११४।। १ पतिमिदं व्यजि खं॥
॥३७५।।
in Education
a
l
For Private & Personal Use Only
|www.jainelibrary.org