Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।।३६७।।
Jain Education I
000000000
वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणम् — सुदर्शनसमुन्नतेः, शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शनप्रभावकस्येत्यर्थः । सुदर्शनश्च संप्रदायगम्यः । स चायम् -
अस्त्यङ्गदेशेऽत्यलकापुरी चम्पेति तत्र च । दधिवाहन इत्यासीद्राजाऽतिनरवाहनः ॥ १ ॥ अत्तस्याभया नाम कलाकौशलशालिनी । महादेवी स्वलावण्यावज्ञातत्रिदशाङ्गना ||२॥ इतो नगर्या तस्यां च समग्रवणिगग्रणीः । श्रेष्ठी वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि || ३ || यथार्थनामिका जैनधर्मोपासनकर्मणा । अर्हदासीति तस्यासीद् वल्लभा शीलशालिनी ॥४॥
great महिषीरक्षोभूत् सुभगाभिधः । अनैपीन्महिषीर्नित्यं स तु चारयितुं वने ॥५॥ वानिवृत्तः सोऽन्येद्युर्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ||६ ॥
अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥७॥ महामुनिमवज्ञातहिमानीपात वेदनम् । तमेव चिन्तयन्नार्द्रमना रात्रि निनाय सः ||८|| अविभाविभावय गृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमा स्थितः ॥ ९ ॥ कल्याणीभक्तिरानम्योपासाञ्चक्रे स तं तदा । अहो नैसर्गिकः कोऽपि विवेकस्ता शामपि ॥ १० ॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रद्धया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ||११|| नमो अरहंताणमिति वाचमुदीरयन् । द्वितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ॥
१ अरिहन्ताणं मु. ॥
For Private & Personal Use Only
5
10
॥३६७॥
www.jainelibrary.org

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502