Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 442
________________ ॥३६॥ भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः। आययौ सपरीवारविशल्यासंयुतस्ततः ।।२६५।। ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टो निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥२६६।। तया च पाणिना स्पृष्टालक्ष्मणात्तत्क्षणादपि । निःसृत्य क्वाप्यगाच्छक्तिर्यष्टिनेव महोरगी ।।२६७।। तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोक्षिताः । निःशल्या जज्ञिरे सैन्याः पुनर्जीता इव क्षणात् ॥२६८॥ अस्याः स्नानाम्भसा सेक्तुं कुम्भकर्णादयोऽपि ते । आनीयन्तामिहेत्युच्चैरादिदेश रघूद्वहः ॥२६९।। तदानीमेव तैर्देव प्रव्रज्या जगृहे स्वयम् । इति विज्ञपयामासुरारक्षा लक्ष्मणाग्रजम् ॥२७०॥ वन्द्यास्तेऽद्य महात्मानो मोच्या मुक्तिपथस्थिताः। इति रामगिराऽऽरक्षनत्वाऽमुच्यन्त ते क्षणात् ॥२७१।। विशल्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि रणायाऽऽगादमर्पणशिरोमणिः ।।२७२॥ प्रणम्य रामं सौमित्रिरुत्तस्थेधिज्यकार्मुकः । विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रणः ॥२७३।। यद् यदस्त्रं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरस्त्रैः कदलिकाण्डवत् ।।२७४।। अस्त्रच्छेदादथ क्रुद्धश्चक्रं चिक्षेप रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन्न धारया ॥२७५।। तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाश्वैरप्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥२७६॥ सीता स्वर्णशलाकेव निर्मला शीलशालिनी । रामेण जगृहे लङ्काराज्ये न्यस्तो विभीषणः ॥२७७।। शत्रु निहत्य ससहोदर-दार-मित्रो, रामो ययावथ निजां नगरीमयोध्याम् । For Private & Personal Use Only Jain Education Inter P aw.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502