Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३६३॥
पुनर्गदाप्रहारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्का प्रत्यचलत्ततः ॥२३९।। मेघवन्निनदन् मेघनादोऽपि मुदितस्ततः । प्लवङ्गान् प्लावयामास निशातशरवृष्टिभिः ॥२४॥ डुढौके तिष्ट तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मणः ॥२४१।। सुग्रीवोऽप्युत्पपाताथ कृत्वोजो गवणानुजात् । मुष्टौ धृतः कियत्काल ननु तिष्ठति पारदः ॥२४२।। वलितः कुम्भकर्णोऽपि रामेण युयुधे ततः। सौमित्रिणा मेघनादोऽप्रमादः क्षोभयन् जगत् ॥२४३।। मिलितौ रामपौलस्त्यावधी पूर्वापराविव । अभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥२४४॥ रावणावरजं रामो रावणिं लक्ष्मणः पुनः । पातयित्वाऽग्रहीत सत्यं रक्षसामपि राक्षसाः॥२४५।। रावणेरावणो रोपादशेषकपिकुञ्जगन । पिपन्नथाययौ युद्धभुवं भुवनभीषणः ॥२४६।। अलमार्य ! स्वयं युद्धेनेति रामं निवारयन् । सौमित्रिरभ्यमित्रीणो बभूवास्फालयन् धनुः ॥२४७॥ चिरं युद्ध्वाऽखिलैरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥२४८।। शक्त्या भिन्नोऽपतत् क्षोण्यां लक्ष्मणस्तत्क्षणादपि । तथैव सद्यो रामोऽपि बलवच्छोकशङ्कुना ॥२४९।। कृत्वा वान् भटैरष्टौ प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ॥२५०॥ मरिष्यत्यद्य सौमित्रिस्तदभावे तदग्रजः। किं मुधा मे रणेनेति रावणोऽगात् पूरी ततः॥२५१।।
॥३६३।।
१ राक्षस: मु.॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502