SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ॥३६३॥ पुनर्गदाप्रहारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्का प्रत्यचलत्ततः ॥२३९।। मेघवन्निनदन् मेघनादोऽपि मुदितस्ततः । प्लवङ्गान् प्लावयामास निशातशरवृष्टिभिः ॥२४॥ डुढौके तिष्ट तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मणः ॥२४१।। सुग्रीवोऽप्युत्पपाताथ कृत्वोजो गवणानुजात् । मुष्टौ धृतः कियत्काल ननु तिष्ठति पारदः ॥२४२।। वलितः कुम्भकर्णोऽपि रामेण युयुधे ततः। सौमित्रिणा मेघनादोऽप्रमादः क्षोभयन् जगत् ॥२४३।। मिलितौ रामपौलस्त्यावधी पूर्वापराविव । अभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥२४४॥ रावणावरजं रामो रावणिं लक्ष्मणः पुनः । पातयित्वाऽग्रहीत सत्यं रक्षसामपि राक्षसाः॥२४५।। रावणेरावणो रोपादशेषकपिकुञ्जगन । पिपन्नथाययौ युद्धभुवं भुवनभीषणः ॥२४६।। अलमार्य ! स्वयं युद्धेनेति रामं निवारयन् । सौमित्रिरभ्यमित्रीणो बभूवास्फालयन् धनुः ॥२४७॥ चिरं युद्ध्वाऽखिलैरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥२४८।। शक्त्या भिन्नोऽपतत् क्षोण्यां लक्ष्मणस्तत्क्षणादपि । तथैव सद्यो रामोऽपि बलवच्छोकशङ्कुना ॥२४९।। कृत्वा वान् भटैरष्टौ प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ॥२५०॥ मरिष्यत्यद्य सौमित्रिस्तदभावे तदग्रजः। किं मुधा मे रणेनेति रावणोऽगात् पूरी ततः॥२५१।। ॥३६३।। १ राक्षस: मु.॥ Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy