SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।।३६४ । Jain Education Inte राघवं परितो जाते वप्रद्वारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि || २५२ || भामण्डलमथोपेत्य दक्षिणद्वाररक्षिणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः || २५३ ॥ अयोध्याया योजनेषु द्वादशस्वस्ति पत्तनम् । कौतुकमङ्गलमिति तत्र द्रोणघनो नृपः ॥ २५४ ॥ Shararta विशल्या नाम कन्यका । तस्याः स्नानाम्भसः स्पर्शे शल्यं निर्याति तत्क्षणात् ॥ २५५ ॥ आ प्रत्यूषा लक्ष्मणश्चेत्तत्स्नान पयसोक्ष्यते । गतशल्पस्तदा जीवेदन्यथा तु न जीवति ॥ २५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ २५७ ॥ aai स्वामिका प्रत्यूषे किं करिष्यथ । उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः || २५८|| भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् । आदिक्षत्तत्कृते रामस्तमेव हनुमद्युतम् ॥ २५९ ॥ rgent विमानेनायोध्यां पवनरंहसा । प्रासादाके ददृशतुः शयानं भरतं ततः ॥ २६०॥ भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् | राजकार्येऽपि राजान उत्थाप्यन्ते छुपायतः || २६१ || विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन । ऊचे भामण्डलः कार्यं नाप्तस्याप्ते प्ररोचना || २६२ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् || २६३॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ २६४ ॥ १ रक्षणम् - मु. ॥ २ विषष्टि० ७ । ७ । २८३ - २९२ ।। For Private & Personal Use Only 3000000 DODOOOOOEE द्वितीय: प्रकाश: श्लोक ९९ ३६४|| 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy