________________
॥३६॥
भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः। आययौ सपरीवारविशल्यासंयुतस्ततः ।।२६५।। ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टो निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥२६६।। तया च पाणिना स्पृष्टालक्ष्मणात्तत्क्षणादपि । निःसृत्य क्वाप्यगाच्छक्तिर्यष्टिनेव महोरगी ।।२६७।। तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोक्षिताः । निःशल्या जज्ञिरे सैन्याः पुनर्जीता इव क्षणात् ॥२६८॥ अस्याः स्नानाम्भसा सेक्तुं कुम्भकर्णादयोऽपि ते । आनीयन्तामिहेत्युच्चैरादिदेश रघूद्वहः ॥२६९।। तदानीमेव तैर्देव प्रव्रज्या जगृहे स्वयम् । इति विज्ञपयामासुरारक्षा लक्ष्मणाग्रजम् ॥२७०॥ वन्द्यास्तेऽद्य महात्मानो मोच्या मुक्तिपथस्थिताः। इति रामगिराऽऽरक्षनत्वाऽमुच्यन्त ते क्षणात् ॥२७१।। विशल्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि रणायाऽऽगादमर्पणशिरोमणिः ।।२७२॥ प्रणम्य रामं सौमित्रिरुत्तस्थेधिज्यकार्मुकः । विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रणः ॥२७३।। यद् यदस्त्रं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरस्त्रैः कदलिकाण्डवत् ।।२७४।। अस्त्रच्छेदादथ क्रुद्धश्चक्रं चिक्षेप रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन्न धारया ॥२७५।। तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाश्वैरप्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥२७६॥ सीता स्वर्णशलाकेव निर्मला शीलशालिनी । रामेण जगृहे लङ्काराज्ये न्यस्तो विभीषणः ॥२७७।। शत्रु निहत्य ससहोदर-दार-मित्रो, रामो ययावथ निजां नगरीमयोध्याम् ।
For Private & Personal Use Only
Jain Education Inter
P
aw.jainelibrary.org