SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः१०१ ॥३६६।। ॥३६६॥ उत्पन्नया परकलत्ररिरंसयापि, कृत्वा कुलक्षयमगानरकं दशास्यः ॥२७८।। [इति सीतारावणकथानकम् ] ॥ ९९ ॥ तस्मात् लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात् परस्त्रियम् ॥१०॥ ___दुस्त्यजामपि परस्त्रियं जह्यात् परिहरेत् । दुस्त्यजत्वे हेतूनाह-लावण्यपुण्यावयवां, लावण्यं स्पृहणीयता रूपादिभ्योऽतिरिक्तं, तेन पुण्याः पवित्रा अवयवा यस्यास्तां, पदं स्थानं सौन्दर्यसम्पदो रूपसम्पदः, कला द्वासप्ततिर्लेखाद्याः स्त्रीजनोचिताः, तासां कलापः सम्रहः, तत्र कुशलां प्रवीणाम् । लावण्यं रूपं वैदग्ध्यं च परदाराणां दुस्त्यजत्वे हेतुः। अपिशब्दविष्वपि हेतुषु सम्बन्धनीयः ॥१०॥ परखीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंमति अकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ? ॥१०१॥ परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रूमः का स्तुति कुर्महे ? । Jain Education Inte ! For Private & Personal Use Only M w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy