SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ।।३६७।। Jain Education I 000000000 वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणम् — सुदर्शनसमुन्नतेः, शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शनप्रभावकस्येत्यर्थः । सुदर्शनश्च संप्रदायगम्यः । स चायम् - अस्त्यङ्गदेशेऽत्यलकापुरी चम्पेति तत्र च । दधिवाहन इत्यासीद्राजाऽतिनरवाहनः ॥ १ ॥ अत्तस्याभया नाम कलाकौशलशालिनी । महादेवी स्वलावण्यावज्ञातत्रिदशाङ्गना ||२॥ इतो नगर्या तस्यां च समग्रवणिगग्रणीः । श्रेष्ठी वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि || ३ || यथार्थनामिका जैनधर्मोपासनकर्मणा । अर्हदासीति तस्यासीद् वल्लभा शीलशालिनी ॥४॥ great महिषीरक्षोभूत् सुभगाभिधः । अनैपीन्महिषीर्नित्यं स तु चारयितुं वने ॥५॥ वानिवृत्तः सोऽन्येद्युर्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ||६ ॥ अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥७॥ महामुनिमवज्ञातहिमानीपात वेदनम् । तमेव चिन्तयन्नार्द्रमना रात्रि निनाय सः ||८|| अविभाविभावय गृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमा स्थितः ॥ ९ ॥ कल्याणीभक्तिरानम्योपासाञ्चक्रे स तं तदा । अहो नैसर्गिकः कोऽपि विवेकस्ता शामपि ॥ १० ॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रद्धया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ||११|| नमो अरहंताणमिति वाचमुदीरयन् । द्वितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ॥ १ अरिहन्ताणं मु. ॥ For Private & Personal Use Only 5 10 ॥३६७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy