Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 439
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम ॥३६२॥ Jain Education Inte अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । कनिष्टस्यापि मे स्वामिन्नद्यैकं वचनं कुरु ॥ २२६॥ आयातो रामभद्रोऽत्र निजां जायां च याचते । अर्प्यतां तदसौ सीता धर्मोऽप्येवं न बाध्यते ॥२२७|| अथोचे रावणो रोषाद् रे विभेषि विभीषण । तदेवमुपदेशं मे दत्से कापुरुषोचित्तम् ॥ २२८ ॥ विभीषणो बभाषेse दूरे रामः सलक्ष्मणः । तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ॥ २२९ ॥ अस्मद्वेषी विपक्षानुरागी ज्ञातोऽसि याहि रे । इति निर्वासितस्तेन ययौ रामं विभीषणः || २३०|| लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । न ह्यौचित्ये विमुह्यन्ति महात्मानः कदाचन || २३१|| बहिर्निर्गत्य लङ्केशसेना राघवसेनया । कांस्यतालं कांस्यताले नेवास्फलदथोल्बणम् || २३२ || प्राणसर्वस्व देविन्योर्मिथश्चम्वोर्गनागतम् । जयश्रीः श्रीरिवाकार्षीदुत्तमर्णाधमर्णयोः ॥ २३३॥ रामभूसंज्ञयाऽऽज्ञता हनूमत्प्रमुखास्ततः । जगाहिरे द्विषत्सैन्यं सुरा इव महोदधिम् || २३४॥ इताः केऽपि धृताः केऽपि नाशिताः केऽपि राक्षसाः । प्रसरभी रामवीरैर्देवविरणैरिव ॥ २३५॥ कुम्भकर्णस्तदाकर्ण्य क्रुद्धो वह्निरिव ज्वलन्। मेघनादश्व सावेशः प्रविवेश रणाङ्गणम् ||२३६|| तावापतन्तौ कल्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैमनागपि ||२३७|| सुग्रीवोsथ रुपोत्पाटय शिलामिव शिलोच्चयम् । अक्षिपत् कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ . २३८।। १ दशकण्ठं- शां ॥ For Private & Personal Use Only द्वितीय: प्रकाशः श्लोकः ९९ ॥३६२॥ 5 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502