Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 445
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोकः१०१ ॥३६८॥ ॥३६८॥ आकाशगामिनी नूनमियं विद्यति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥१३॥ जाग्रत्स्वपन्नटस्तिष्ठन्दिवा निशि गृहे बहिः । तदपाठीत् स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥१४॥ ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्टप्रभावभृत । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः ॥१५॥ अशेष महिषीपालः कथयामास तत्ततः । साधु भो साधु भद्रेति शंसन् श्रेष्ठी जगाद तम् ॥१६॥ आकाशगमने हेतुरसौ विद्या न केवले । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥१७॥ यत्किञ्चित् सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्याः प्रभावतः ॥१८॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिव ॥१९॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैर्ग्रहीतव्यं गुरुनाम न जातुचित् ॥२०॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ॥२१॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्क्रियाम् । कल्याणानि यथा ते स्युः परलोकेहलोकयोः ॥२२॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावर्त्तयताजस्रं सुभगः सुभगाशयः ॥२३॥ महिषीपालकस्यास्य क्षुत्तष्णावेदनाहरः। परमेष्ठिनमस्कारः प्रकामं समजायत ॥२४॥ एवं तस्य नमस्कारपाठव्यसनिनः सतः। कियत्यपि गते काले वर्षाकालः समाययौ ॥२५॥ 10 १ केवलम् मु.॥ २ तदमुष्य मु.॥ ३ प्रकाममभ्यज्ञायत शां.। प्रकाममपजायत खं.॥ Jain Education Inter For Private & Personal Use Only M w.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502