Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 433
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ९९ ॥३५६।। द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽद्धेऽढें विटसुग्रीवतोऽभवन् । १४७।। ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥१४८।। युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥१४९।। चतुरङ्गचम्चक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥१५०॥ एह्येहि रे परगृहप्रवेशश्वनिति ब्रुवन् । विटसुग्रीवमुग्रीवः सुग्रीवो योद्धमावत ॥१५१॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥१५२॥ युयुधाते महायोधौ तौ क्रोधारुणलोचनौ। विदधानी जगत्त्रास कीनाशस्येव सोदरौ ॥१५३।। तौ निशातैनिशातानि शस्त्रः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ।।१५४॥ शस्त्रखण्डैरुच्छलभिवे खेचरीगणः। महायुद्धे तयोवृक्षखण्डो महिषयोरिव ॥१५५।। तो छिन्नासावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फलतां पर्वताविव जङ्गमौ ॥१५६॥ उत्पतन्तौ क्षणाद् व्योग्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाभातां वीरचूडामणी उभौ ॥१५७॥ तौ द्वावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥१५८॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिर्निर्गत्य किष्किन्धापुरादावासमग्रहीत् ॥१५९।। ११दुवे शां. । 'दुर्दवे खं. ॥ २ स्विन्न खं.॥ Jain Education Inte For Private & Personal Use Only Biw.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502