Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 431
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥३५४॥ Jain Education Inter OTECTIETEEECOOO0Q000000 अपनेतुं सत्यमार्या मपनीतोऽस्युपायतः । सिंहनादस्य करणे शके स्तोकं न कारणम् ॥ १२१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात् सलक्ष्मणः । सीतामपश्यन् क्वासीति विलपन् मूच्छितोऽपतत् ||१२२|| तं लब्धसंज्ञ सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया || १२३|| अत्रान्तरे मानेकः कश्विदेत्य ननाम तौ । ताभ्यां पृष्टः स्ववृत्तान्तमेवं व्यज्ञपयच्च सः ॥ १२४॥ हत्वा पाताललङ्केशं तातं चन्द्रोदरं मम । अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ।। १२५ ।। गुर्वी च नष्टा मन्माता विराधं नाम मां सुतम् । अन्यत्राभूत तस्याश्च कश्चिदाख्यदिदं मुनिः || १२६ || यदा दाशरथिर्हन्ता खरादींस्त्वत्सुतं तदा । पाताललङ्काधिपति करिष्यति न संशयः ॥ १२७॥ तदद्य समयं लब्ध्वा युष्मानस्मि समाश्रितः । पितृवैरिवधक्रीतं पत्ति जानीथ मां निजम् ॥ १२८ ॥ रामस्ततोदात् पाताललङ्कां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिनः स्वयमेव हि ॥ १२९ ॥ | तं च स्थापयितुं तत्र गच्छन् रामः सलक्ष्मणः । हृतविद्यं पुरोऽपश्यद् भ्रस्थं भामण्डलानुगम् ॥१३०॥ अथ दाशरथी नत्वा स वृत्तान्तं व्यजिज्ञपत् । आत्मनश्च जटायोश्च सीताया रावणस्य च ॥ १३१ ॥ अथ पातालकाri at रामः सलक्ष्मणः । सत्यसन्धो विराधं च पित्र्ये राज्ये न्यवेशयत् ।। १३२ ।। sar साहसगतिर्नाम विद्याधराग्रणीः । खे भ्रमन्नधिकिष्किन्धाधित्यकं समुपाययौ ॥ १३३ || ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं वहिः । सुग्रीवः सपरीवारो राज्ञां हि स्थितिरीदृशी ॥ १३४ ॥ For Private & Personal Use Only 0000000:0OTHIN 000000000000.00000ELLELE द्वितीय: प्रकाशः श्लोक ९९ ॥३५४॥ 5 10 w.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502