Book Title: Yogashastram Part_1
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥३५५||
ददर्श साहसगतिस्तदा चान्तःपुरस्थिताम् । सुग्रीवस्य प्रियां नाम्ना तागं तारविलोचनाम् ॥१३५॥ तस्यां लावण्यकूलिन्यां स चिक्रीडिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मात इव कुअरः ॥१३६।। सोऽस्थात् तथैव तत्रैव निषिद्धगमनः क्षणात् । तां मूर्तामिव कामाज्ञामुल्लङ्घयितुमक्षमः ॥१३७।। रमणी, रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुलः सोऽप्युपायं क्षणमचिन्तयत् ॥१३८।। सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलत्वकुशलः कुशीलव इवाददे ॥१३९।। अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलित: सुग्रीवभवनेऽविशत् ॥१४॥ अन्तःपुरगृहद्वारं स ययौ यावदुत्सुकः । तावद्वयाघुटय सुग्रीवः स्ववेश्मद्वारमाययौ ॥१४१॥ सुग्रीवस्य प्रवेष्टुं न द्वारं प्राहरिका ददुः । अग्रे प्रविष्टो राजास्ति त्वमन्योऽसीति वादिनः ॥१४२॥ ततश्च सत्यसुग्रीवे स्खल्यमाने स्ववेत्रिभिः । अतुलस्तुमुलो जज्ञे मध्यमान इवार्णवे ॥१४३॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तवारं त्वरितो ययौ ॥१४४॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिमनुना। मार्गाद्रिणा सरित्यूर इव प्रस्खलितस्ततः ॥१४५।। अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वस्वानीव सर्वतः ॥१४६॥ १ 'कुलः कामं सोऽप्युपायमचिन्तयत् शां.। कुलः कामं सोऽभ्युपायं व्यचिन्तयत् खं. ॥ २ द्वारा खं. ॥ ३ त्रिषष्टि० ७।६। ६३-११५ ॥
॥३५५॥
Jain Education Inter
For Private & Personal Use Only
A.jainelibrary.org

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502