SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ॥३५५|| ददर्श साहसगतिस्तदा चान्तःपुरस्थिताम् । सुग्रीवस्य प्रियां नाम्ना तागं तारविलोचनाम् ॥१३५॥ तस्यां लावण्यकूलिन्यां स चिक्रीडिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मात इव कुअरः ॥१३६।। सोऽस्थात् तथैव तत्रैव निषिद्धगमनः क्षणात् । तां मूर्तामिव कामाज्ञामुल्लङ्घयितुमक्षमः ॥१३७।। रमणी, रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुलः सोऽप्युपायं क्षणमचिन्तयत् ॥१३८।। सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलत्वकुशलः कुशीलव इवाददे ॥१३९।। अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलित: सुग्रीवभवनेऽविशत् ॥१४॥ अन्तःपुरगृहद्वारं स ययौ यावदुत्सुकः । तावद्वयाघुटय सुग्रीवः स्ववेश्मद्वारमाययौ ॥१४१॥ सुग्रीवस्य प्रवेष्टुं न द्वारं प्राहरिका ददुः । अग्रे प्रविष्टो राजास्ति त्वमन्योऽसीति वादिनः ॥१४२॥ ततश्च सत्यसुग्रीवे स्खल्यमाने स्ववेत्रिभिः । अतुलस्तुमुलो जज्ञे मध्यमान इवार्णवे ॥१४३॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तवारं त्वरितो ययौ ॥१४४॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिमनुना। मार्गाद्रिणा सरित्यूर इव प्रस्खलितस्ततः ॥१४५।। अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वस्वानीव सर्वतः ॥१४६॥ १ 'कुलः कामं सोऽप्युपायमचिन्तयत् शां.। कुलः कामं सोऽभ्युपायं व्यचिन्तयत् खं. ॥ २ द्वारा खं. ॥ ३ त्रिषष्टि० ७।६। ६३-११५ ॥ ॥३५५॥ Jain Education Inter For Private & Personal Use Only A.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy