________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
॥३५४॥
Jain Education Inter
OTECTIETEEECOOO0Q000000
अपनेतुं सत्यमार्या मपनीतोऽस्युपायतः । सिंहनादस्य करणे शके स्तोकं न कारणम् ॥ १२१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात् सलक्ष्मणः । सीतामपश्यन् क्वासीति विलपन् मूच्छितोऽपतत् ||१२२|| तं लब्धसंज्ञ सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया || १२३|| अत्रान्तरे मानेकः कश्विदेत्य ननाम तौ । ताभ्यां पृष्टः स्ववृत्तान्तमेवं व्यज्ञपयच्च सः ॥ १२४॥ हत्वा पाताललङ्केशं तातं चन्द्रोदरं मम । अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ।। १२५ ।। गुर्वी च नष्टा मन्माता विराधं नाम मां सुतम् । अन्यत्राभूत तस्याश्च कश्चिदाख्यदिदं मुनिः || १२६ || यदा दाशरथिर्हन्ता खरादींस्त्वत्सुतं तदा । पाताललङ्काधिपति करिष्यति न संशयः ॥ १२७॥ तदद्य समयं लब्ध्वा युष्मानस्मि समाश्रितः । पितृवैरिवधक्रीतं पत्ति जानीथ मां निजम् ॥ १२८ ॥
रामस्ततोदात् पाताललङ्कां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिनः स्वयमेव हि ॥ १२९ ॥ | तं च स्थापयितुं तत्र गच्छन् रामः सलक्ष्मणः । हृतविद्यं पुरोऽपश्यद् भ्रस्थं भामण्डलानुगम् ॥१३०॥ अथ दाशरथी नत्वा स वृत्तान्तं व्यजिज्ञपत् । आत्मनश्च जटायोश्च सीताया रावणस्य च ॥ १३१ ॥
अथ पातालकाri at रामः सलक्ष्मणः । सत्यसन्धो विराधं च पित्र्ये राज्ये न्यवेशयत् ।। १३२ ।। sar साहसगतिर्नाम विद्याधराग्रणीः । खे भ्रमन्नधिकिष्किन्धाधित्यकं समुपाययौ ॥ १३३ || ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं वहिः । सुग्रीवः सपरीवारो राज्ञां हि स्थितिरीदृशी ॥ १३४ ॥
For Private & Personal Use Only
0000000:0OTHIN
000000000000.00000ELLELE
द्वितीय:
प्रकाशः
श्लोक ९९
॥३५४॥
5
10
w.jainelibrary.org