________________
तं श्रुत्वा मैथिली तत्र मुक्त्वा रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ।१०८॥ अथोत्तीर्य दशग्रीवः सीतामारोप्य पुष्पके । त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ।१०९। हा नाथ विद्विषन्माथ राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातर्भामण्डल महाभज ॥११०॥ सीता वो हियतेऽनेन काकेनेव बलिछलात । एवं सीता रुगेदोच्चै रोदयन्तीव रोदसी ॥१११॥ मा भैपीः पुत्रि मा भैषीः क्व रे यासि निशाचर । रोषादिति वदन दूराजटायुस्तमधावत ॥११२॥ भामण्डलानुगश्चकः कोऽपि विद्याधगग्रणीः। डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ।।११३।। जटायुर्विकटाटोपकरजत्रोटिकोटिभिः । प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥११॥ रे जीवितस्य तृप्तोऽसि जरद्धेति विवन् । दशास्यश्चन्द्रहासासिमाकृष्य निजघान तम् ॥११५।। तस्य विद्याधरस्यापि विद्यां दशमुखोऽहरत् । निकृत्तपक्षः पक्षीव सोऽपविद्योऽपतद् भुवि ॥११६॥ रावणोऽगात्ततो लङ्कां सीता चोपवनेऽमुचत् । तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥११७॥ रामस्यापि हतामित्रः सौमित्रिः संमुखोऽभवत् । आर्यामार्य ! विमुच्यैकां किमागा इति चाब्रवीत् ॥११८॥ आहूतः सिंहनादेन तव वैधुर्यलक्ष्मणा। लक्ष्मणाऽहमिहाऽऽयातो व्याजहारेति राघवः ॥११९।। लक्ष्मणोऽप्यवदच्चक्रे सिंहनादो मया न हि । श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥१२०॥ १ त्रिषष्टि० ७।५।४४३-४४५॥ २ प्रतिहन्तुं-ख. च.।।
Jain Education Inter
For Private & Personal use only
Brw.jainelibrary.org