SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोकः ९९ ॥३५६।। द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽद्धेऽढें विटसुग्रीवतोऽभवन् । १४७।। ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥१४८।। युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥१४९।। चतुरङ्गचम्चक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥१५०॥ एह्येहि रे परगृहप्रवेशश्वनिति ब्रुवन् । विटसुग्रीवमुग्रीवः सुग्रीवो योद्धमावत ॥१५१॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥१५२॥ युयुधाते महायोधौ तौ क्रोधारुणलोचनौ। विदधानी जगत्त्रास कीनाशस्येव सोदरौ ॥१५३।। तौ निशातैनिशातानि शस्त्रः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ।।१५४॥ शस्त्रखण्डैरुच्छलभिवे खेचरीगणः। महायुद्धे तयोवृक्षखण्डो महिषयोरिव ॥१५५।। तो छिन्नासावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फलतां पर्वताविव जङ्गमौ ॥१५६॥ उत्पतन्तौ क्षणाद् व्योग्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाभातां वीरचूडामणी उभौ ॥१५७॥ तौ द्वावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥१५८॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिर्निर्गत्य किष्किन्धापुरादावासमग्रहीत् ॥१५९।। ११दुवे शां. । 'दुर्दवे खं. ॥ २ स्विन्न खं.॥ Jain Education Inte For Private & Personal Use Only Biw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy