SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ||३५७|| Jain Education Intern तत्रैव विसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं तु न लेभे वालिनन्दनात् ॥ १६० ॥ सुग्रीवो न्यश्चितग्रीवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पट : कूटपटुः कोऽप्येष नो द्विषन् ।। १६१ ।। आत्मीय अध्यात्मीया द्विपमायावशीकृताः । अहो बभृवस्तदसाववस्कन्दो निजैर्हयैः ॥ १६२॥ माया पराक्रमोत्कृष्टः कथं वध्यो द्विषन् मया । धिग्मां पराक्रमभ्रष्टं वालिनाम्नस्त्रपाकरम् ॥ १६३ ॥ धन्य महालो वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिव त्यक्त्वा यश्व भेजे परं पदम् ॥ १६४ ॥ चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् || १६५ || इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यत्प्रवेशनम् ॥ १६६ ॥ वधाय वलिनोऽमुष्य बलीयांसं श्रयामि कम् । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ १६७ ॥ भूर्भुवः स्वत्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्विषद्धा तहेतवे किं दशाननम् ॥ १६८॥ असौ किं तु प्रकृत्या स्त्रीलोलबैलोक्यकण्टकः । तं च मां च निहत्याशु तारामादास्यते स्वयम् ॥ १६९ ॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु || १७०॥ तावेव राम - सौमित्र गत्वा मित्रीकरोमि तत्। तत्कालोपनतस्यापि यौ विराधस्य राज्यदौ ॥ १७१ ॥ तौ तु पाताललङ्कायामलंकर्मीणदोर्बलौ । विराधस्योपरोधेन तथैवाद्यापि तिष्ठतः || १७२।। १ चन्द्रराशिः शां. खं ॥ २ चन्द्रराशिना शां. खं. ॥ ३ तत्रैवा खं. ॥ 2 For Private & Personal Use Only 5 10 ||३५७|| jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy